Sukta 6.7
वैश्वानर तव तानि व्रतानि महान्यग्ने नकिरा दधर्ष । यज्जायमानः पित्रोरुपस्थेऽविन्दः केतुं वयुनेष्वह्नाम् ॥
वैश्वा॑नर॒ तव॒ तानि॑ व्र॒तानि॑ म॒हान्य॑ग्ने॒ नकि॒रा द॑धर्ष । यज्जाय॑मानः पि॒त्रोरु॒पस्थेऽवि॑न्दः के॒तुं व॒युने॒ष्वह्ना॑म् ॥
vaiśvānara táva tā́ni vratā́ni mahā́ny agne nákir ā́ dadharṣa | yáj jā́yamānaḥ pitór upásthe ’víndaḥ ketúṃ vayúneṣv áhnām ||
O Vaiśvānara, yours are those great laws of working, O Agni—none can violate them. When you are born in the lap of the two parents, you find the guiding light in the ordered workings of the days.
वैश्वा॑नर । तव॑ । तानि॑ । व्र॒तानि॑ । म॒हानि॑ । अ॒ग्ने॒ । नकिः॑ । आ । द॒ध॒र्ष॒ । यत् । जा॑य॑मानः । पि॒त्रोः । उ॒पऽस्थे॑ । अवि॑न्दः । के॒तुम् । व॒युने॑षु । अह्ना॑म् ॥वैश्वानर । तव । तानि । व्रतानि । महानि । अग्ने । नकिः । आ । दधर्ष । यत् । जायमानः । पित्रोः । उपस्थे । अविन्दः । केतुम् । वयुनेषु । अह्नाम् ॥vaiśvānara | tava | tāni | vratāni | mahāni | agne | nakiḥ | ā | dadharṣa | yat | jāyamānaḥ | pitroḥ | upa-sthe | avindaḥ | ketum | vayuneṣu | ahnām