Sukta 6.68
इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् । इदं वामन्धः परिषिक्तमस्मे आसद्यास्मिन्बर्हिषि मादयेथाम् ॥
इन्द्रा॑वरुणा॒ मधु॑मत्तमस्य॒ वृष्ण॒: सोम॑स्य वृष॒णा वृ॑षेथाम् । इ॒दं वा॒मन्ध॒: परि॑षिक्तम॒स्मे आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयेथाम् ॥
indrā́varuṇā mádhu-mattamasya vṛ́ṣṇaḥ sómasya vṛṣaṇā́ ā́ vṛṣethām | idáṃ vām ándhaḥ pári-siktam asmè āsádya asmín barhíṣi mādayethām ||
O Indra and Varuṇa, two Bulls, grow strong with the most honeyed Soma. This pressed essence is poured all around for you in us; sit down upon this seat of offering and take your delight.
इन्द्रा॑वरुणा । मधु॑मत्ऽतमस्य । वृष्णः॑ । सोम॑स्य । वृ॒ष॒णा॒ । आ । वृ॒षे॒था॒म् । इ॒दम् । वा॒म् । अन्धः॑ । परि॑ऽसिक्तम् । अ॒स्मे इति॑ । आ॒ऽसद्य । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒ये॒था॒म् ॥इन्द्रावरुणा । मधुमत्तमस्य । वृष्णः । सोमस्य । वृषणा । आ । वृषेथाम् । इदम् । वाम् । अन्धः । परिसिक्तम् । अस्मे इति । आसद्य । अस्मिन् । बर्हिषि । मादयेथाम् ॥indrāvaruṇā | madhumat-tamasya | vṛṣṇaḥ | somasya | vṛṣaṇā | ā | vṛṣethām | idam | vām | andhaḥ | pari-siktam | asme iti | āsadya | asmin | barhiṣi | mādayethām