Sukta 6.67
प्र यद्वां मित्रावरुणा स्पूर्धन्प्रिया धाम युवधिता मिनन्ति । न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो न पुत्राः ॥
प्र यद्वां॑ मित्रावरुणा स्पू॒र्धन्प्रि॒या धाम॑ यु॒वधि॑ता मि॒नन्ति॑ । न ये दे॒वास॒ ओह॑सा॒ न मर्ता॒ अय॑ज्ञसाचो॒ अप्यो॒ न पु॒त्राः ॥
prá yád vā́m mitrā́varuṇā spūrdhán priyā́ dhā́ma yuvádhitā minánti | ná ye devā́sa óhasā ná mártā ayajñasā́co apyó ná putrā́ḥ ||
When, O Mitra and Varuṇa, your cherished seats of consciousness are set in motion by a noble striving, none—neither gods by might nor mortals—can diminish them; for those who walk without the sacrifice cannot reach you, like sons who have no access to the hidden home.
प्र । यत् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । स्पू॒र्धन् । प्रि॒या । धाम॑ । यु॒वऽधि॑ता । मि॒नन्ति॑ । न । ये । दे॒वासः॑ । ओह॑सा । न । मर्ताः॑ । अय॑ज्ञऽसाचः । अप्यः॑ । न । पु॒त्राः ॥प्र । यत् । वाम् । मित्रावरुणा । स्पूर्धन् । प्रिया । धाम । युवधिता । मिनन्ति । न । ये । देवासः । ओहसा । न । मर्ताः । अयज्ञसाचः । अप्यः । न । पुत्राः ॥pra | yat | vām | mitrāvaruṇā | spūrdhan | priyā | dhāma | yuva-dhitā | minanti | na | ye | devāsaḥ | ohasā | na | martāḥ | ayajña-sācaḥ | apyaḥ | na | putrāḥ