Sukta 6.67
वि यद्वाचं कीस्तासो भरन्ते शंसन्ति के चिन्निविदो मनानाः । आद्वां ब्रवाम सत्यान्युक्था नकिर्देवेभिर्यतथो महित्वा ॥
वि यद्वाचं॑ की॒स्तासो॒ भर॑न्ते॒ शंस॑न्ति॒ के चि॑न्नि॒विदो॑ मना॒नाः । आद्वां॑ ब्रवाम स॒त्यान्यु॒क्था नकि॑र्दे॒वेभि॑र्यतथो महि॒त्वा ॥
ví yád vā́caṃ kīstā́so bhárante śáṃsanti ké cín nivído manānā́ḥ | ā́d vā́m bravāma satyā́ny ukthā́ nákir devébhir yatatho mahitvā́ ||
When the singers spread the word and some, mindful, proclaim the invocatory formulas, then we speak to you the true utterances: none among the gods attains your greatness.
वि । यत् । वाच॑म् । की॒स्तासः॑ । भर॑न्ते । शंस॑न्ति । के । चि॒त् । नि॒ऽविदः॑ । म॒ना॒नाः । आत् । वा॒म् । ब्र॒वा॒म॒ । स॒त्यानि॑ । उ॒क्था । नकिः॑ । दे॒वेभिः॑ । य॒त॒थः॒ । म॒हि॒ऽत्वा ॥वि । यत् । वाचम् । कीस्तासः । भरन्ते । शंसन्ति । के । चित् । निविदः । मनानाः । आत् । वाम् । ब्रवाम । सत्यानि । उक्था । नकिः । देवेभिः । यतथः । महित्वा ॥vi | yat | vācam | kīstāsaḥ | bharante | śaṃsanti | ke | cit | ni-vidaḥ | manānāḥ | āt | vām | bravāma | satyāni | ukthā | nakiḥ | devebhiḥ | yatathaḥ | mahi-tvā