Sukta 6.67
ता जिह्वया सदमेदं सुमेधा आ यद्वां सत्यो अरतिॠते भूत् । तद्वां महित्वं घृतान्नावस्तु युवं दाशुषे वि चयिष्टमंहः ॥
ता जि॒ह्वया॒ सद॒मेदं सु॑मे॒धा आ यद्वां॑ स॒त्यो अ॑र॒तिॠ॒ते भूत् । तद्वां॑ महि॒त्वं घृ॑तान्नावस्तु यु॒वं दा॒शुषे॒ वि च॑यिष्ट॒मंह॑: ॥
tā́ jihváyā sádam ídaṃ su-medhā́ ā́ yád vāṃ satyó aratíḥ ṛté bhūt | tád vāṃ mahitváṃ ghṛtā́nnavāstu yuváṃ dāśúṣe ví cayiṣṭam áṃhaḥ ||
With the tongue of right utterance, O wise-minded ones, we continually bring this to you—when false disorder has arisen apart from ṛta. Let your greatness be our clarified nourishment; you two, for the giver, separate out and remove the distress.
ता । जि॒ह्वया॑ । सद॑म् । आ । इ॒दम् । सु॒ऽमे॒धाः । आ । यत् । वा॒म् । स॒त्यः । अ॒र॒तिः । ऋ॒ते । भू॒त् । तत् । वा॒म् । म॒हि॒ऽत्वम् । घृ॒त॒ऽअ॒न्नौ॒ । अ॒स्तु॒ । यु॒वम् । दा॒शुषे॑ । वि । च॒यि॒ष्ट॒म् । अंहः॑ ॥ता । जिह्वया । सदम् । आ । इदम् । सुमेधाः । आ । यत् । वाम् । सत्यः । अरतिः । ऋते । भूत् । तत् । वाम् । महित्वम् । घृतअन्नौ । अस्तु । युवम् । दाशुषे । वि । चयिष्टम् । अंहः ॥tā | jihvayā | sadam | ā | idam | su-medhāḥ | ā | yat | vām | satyaḥ | aratiḥ | ṛte | bhūt | tat | vām | mahi-tvam | ghṛta-annau | astu | yuvam | dāśuṣe | vi | cayiṣṭam | aṃhaḥ