Sukta 6.67
ता विग्रं धैथे जठरं पृणध्या आ यत्सद्म सभृतयः पृणन्ति । न मृष्यन्ते युवतयोऽवाता वि यत्पयो विश्वजिन्वा भरन्ते ॥
ता वि॒ग्रं धै॑थे ज॒ठरं॑ पृ॒णध्या॒ आ यत्सद्म॒ सभृ॑तयः पृ॒णन्ति॑ । न मृ॑ष्यन्ते युव॒तयोऽवा॑ता॒ वि यत्पयो॑ विश्वजिन्वा॒ भर॑न्ते ॥
tā́ vígraṃ dháithe jaṭháraṃ pṛṇádhyā ā́ yát sádma sabhṛ́tayaḥ pṛṇánti | ná mṛ́ṣyante yuvatáyo'vā́tā ví yát páyo viśva-jinvā́ bhárante ||
You two fill the wide belly for fullness, when the gathered ones fill the home. The young maidens, unwounded by wind, do not fail when they bring forth and distribute the milk that nourishes all.
ता । वि॒ग्रम् । धै॒थे॒ इति॑ । ज॒ठर॑म् । पृ॒णध्यै॑ । आ । यत् । सद्म॑ । सऽभृ॑तयः । पृ॒ट्णन्ति॑ । न । मृ॒ष्य॒न्ते॒ । यु॒व॒तयः॑ । अवा॑ताः । वि । यत् । पयः॑ । वि॒श्व॒ऽजि॒न्वा॒ । भर॑न्ते ॥ता । विग्रम् । धैथे इति । जठरम् । पृणध्यै । आ । यत् । सद्म । सभृतयः । पृट्णन्ति । न । मृष्यन्ते । युवतयः । अवाताः । वि । यत् । पयः । विश्वजिन्वा । भरन्ते ॥tā | vigram | dhaitheiti | jaṭharam | pṛṇadhyai | ā | yat | sadma | sa-bhṛtayaḥ | pṛṭṇanti | na | mṛṣyante | yuvatayaḥ | avātāḥ | vi | yat | payaḥ | viśva-jinvā | bharante