Sukta 6.67
ता हि क्षत्रं धारयेथे अनु द्यून्दृंहेथे सानुमुपमादिव द्योः । दृळ्हो नक्षत्र उत विश्वदेवो भूमिमातान्द्यां धासिनायोः ॥
ता हि क्ष॒त्रं धा॒रये॑थे॒ अनु॒ द्यून्दृं॒हेथे॒ सानु॑मुप॒मादि॑व॒ द्योः । दृ॒ळ्हो नक्ष॑त्र उ॒त वि॒श्वदे॑वो॒ भूमि॒माता॒न्द्यां धा॒सिना॒योः ॥
tā́ hí kṣatráṃ dhāráyethe ánu dyū́n dṛṃhéthe sā́num upamā́diva dyóḥ | dṛḷhó nákṣatra utá viśvádevo bhū́mim ā́tān dyā́ṃ dhā́sinā āyóḥ ||
For you two uphold the sovereign power and strengthen the days; you make firm the summit as if the measure of heaven. The steadfast star and the all-god uphold earth and heaven by your establishing might.
ता । हि । क्ष॒त्रम् । धा॒रये॑थे॒ इति॑ । अनु॑ । द्यून् । दृं॒हेथे॒ इति॑ । सानु॑म् । उ॒प॒मात्ऽइ॑व । द्योः । दृ॒ळ्हः । नक्ष॑त्रः । उ॒त । वि॒श्वऽदे॑वः । भूमि॑म् । आ । अ॒ता॒न् । द्याम् । धा॒सिना॑ । आ॒योः ॥ता । हि । क्षत्रम् । धारयेथे इति । अनु । द्यून् । दृंहेथे इति । सानुम् । उपमात्इव । द्योः । दृळ्हः । नक्षत्रः । उत । विश्वदेवः । भूमिम् । आ । अतान् । द्याम् । धासिना । आयोः ॥tā | hi | kṣatram | dhārayetheiti | anu | dyūn | dṛṃhetheiti | sānum | upamāt-iva | dyoḥ | dṛḷhaḥ | nakṣatraḥ | uta | viśva-devaḥ | bhūmim | ā | atān | dyām | dhāsinā | āyoḥ