Sukta 6.67
विश्वे यद्वां मंहना मन्दमानाः क्षत्रं देवासो अदधुः सजोषाः । परि यद्भूथो रोदसी चिदुर्वी सन्ति स्पशो अदब्धासो अमूराः ॥
विश्वे॒ यद्वां॑ मं॒हना॒ मन्द॑मानाः क्ष॒त्रं दे॒वासो॒ अद॑धुः स॒जोषा॑: । परि॒ यद्भू॒थो रोद॑सी चिदु॒र्वी सन्ति॒ स्पशो॒ अद॑ब्धासो॒ अमू॑राः ॥
víśve yád vāṃ maṃhánā mándamānāḥ kṣatráṃ devā́so ádadhuḥ sajóṣāḥ | párī yád bhū́tho ródasī cid urvī́ sánti spáśo ádabdhāso amū́rāḥ ||
When all the gods, rejoicing in your greatness, together established your sovereign power, then—even though you encompass the two wide worlds—there are your watchers, unbeguiled and unwavering, who guard the order.
विश्वे॑ । यत् । वा॒म् । मं॒हना॑ । मन्द॑मानाः । क्ष॒त्रम् । दे॒वासः॑ । अद॑धुः । स॒ऽजोषाः॑ । परि॑ । यत् । भू॒थः । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । सन्ति॑ । स्पशः॑ । अद॑ब्धासः । अमू॑राः ॥विश्वे । यत् । वाम् । मंहना । मन्दमानाः । क्षत्रम् । देवासः । अदधुः । सजोषाः । परि । यत् । भूथः । रोदसी इति । चित् । उर्वी इति । सन्ति । स्पशः । अदब्धासः । अमूराः ॥viśve | yat | vām | maṃhanā | mandamānāḥ | kṣatram | devāsaḥ | adadhuḥ | sa-joṣāḥ | pari | yat | bhūthaḥ | rodasī iti | cit | urvī iti | santi | spaśaḥ | adabdhāsaḥ | amūrāḥ