Sukta 6.67
इयं मद्वां प्र स्तृणीते मनीषोप प्रिया नमसा बर्हिरच्छ । यन्तं नो मित्रावरुणावधृष्टं छर्दिर्यद्वां वरूथ्यं सुदानू ॥
इ॒यं मद्वां॒ प्र स्तृ॑णीते मनी॒षोप॑ प्रि॒या नम॑सा ब॒र्हिरच्छ॑ । य॒न्तं नो॑ मित्रावरुणा॒वधृ॑ष्टं छ॒र्दिर्यद्वां॑ वरू॒थ्यं॑ सुदानू ॥
iyáṃ mád-vāṃ prá stṛṇīte manīṣópa priyā́ námasā barhír áccha | yántam no mitrāvaruṇāv ádhṛṣṭaṃ chárdir yád vāṃ varū́thyaṃ sudānū ||
This our inspired thought spreads out the dear seat of offering with reverence, for you to come near. O Mitra and Varuṇa, come to us unassailed; may your protecting shelter, O bounteous ones, be our covering and peace.
इ॒यम् । मत् । वा॒म् । प्र । स्तृ॒णी॒ते॒ । म॒नी॒षा । उप॑ । प्रि॒या । नम॑सा । ब॒र्हिः । अच्छ॑ । य॒न्तम् । नः॒ । मि॒त्रा॒व॒रु॒णौ॒ । अधृ॑ष्टम् । छ॒र्दिः । यत् । वा॒म् । व॒रू॒थ्य॑म् । सु॒दा॒नू॒ इति॑ सुऽदानू ॥इयम् । मत् । वाम् । प्र । स्तृणीते । मनीषा । उप । प्रिया । नमसा । बर्हिः । अच्छ । यन्तम् । नः । मित्रावरुणौ । अधृष्टम् । छर्दिः । यत् । वाम् । वरूथ्यम् । सुदानू इति सुदानू ॥iyam | mat | vām | pra | stṛṇīte | manīṣā | upa | priyā | namasā | barhiḥ | accha | yantam | naḥ | mitrāvaruṇau | adhṛṣṭam | chardiḥ | yat | vām | varūthyam | sudānūitisu-dānū