Sukta 6.67
विश्वेषां वः सतां ज्येष्ठतमा गीर्भिर्मित्रावरुणा वावृधध्यै । सं या रश्मेव यमतुर्यमिष्ठा द्वा जनाँ असमा बाहुभिः स्वैः ॥
विश्वे॑षां वः स॒तां ज्येष्ठ॑तमा गी॒र्भिर्मि॒त्रावरु॑णा वावृ॒धध्यै॑ । सं या र॒श्मेव॑ य॒मतु॒र्यमि॑ष्ठा॒ द्वा जनाँ॒ अस॑मा बा॒हुभि॒: स्वैः ॥
víśveṣāṃ vaḥ satā́ṃ jyéṣṭhatamā gīrbhír mitrā́varuṇā vāvṛdhádhyai | sáṃ yā́ raśméva yámatūr yámiṣṭhā dvā́ janā́ṃ ásamā bāhúbhiḥ sváiḥ ||
O Mitra and Varuṇa, eldest among all beings of truth, by our inspired words we seek to increase you. You two, unequalled, gather and hold the peoples together as with a rein, by your own mighty arms.
विश्वे॑षाम् । वः॒ । स॒ताम् । ज्येष्ठ॑ऽतमा । गीः॒ऽभिः । मि॒त्रावरु॑णा । व॒वृ॒धध्यै॑ । सम् । या । र॒श्माऽइ॑व । य॒मतुः॑ । यमि॑ष्ठा । द्वा । जना॑न् । अस॑मा । बा॒हुऽभिः॑ । स्वैः ॥विश्वेषाम् । वः । सताम् । ज्येष्ठतमा । गीःभिः । मित्रावरुणा । ववृधध्यै । सम् । या । रश्माइव । यमतुः । यमिष्ठा । द्वा । जनान् । असमा । बाहुभिः । स्वैः ॥viśveṣām | vaḥ | satām | jyeṣṭha-tamā | gīḥ-bhiḥ | mitrāvaruṇā | vavṛdhadhyai | sam | yā | raśmāiva | yamatuḥ | yamiṣṭhā | dvā | janān | asamā | bāhu-bhiḥ | svaiḥ