Sukta 6.67
अवोरित्था वां छर्दिषो अभिष्टौ युवोर्मित्रावरुणावस्कृधोयु । अनु यद्गावः स्फुरानृजिप्यं धृष्णुं यद्रणे वृषणं युनजन् ॥
अ॒वोरि॒त्था वां॑ छ॒र्दिषो॑ अ॒भिष्टौ॑ यु॒वोर्मि॑त्रावरुणा॒वस्कृ॑धोयु । अनु॒ यद्गाव॑: स्फु॒रानृ॑जि॒प्यं धृ॒ष्णुं यद्रणे॒ वृष॑णं यु॒नज॑न् ॥
avór itthā́ vā́m chardíṣo abhíṣṭau yuvór mitrāvaruṇāv áskṛdhoyu | ánu yád gā́vaḥ sphurā́n ṛjípyam dhṛ́ṣṇuṃ yád ráṇe vṛ́ṣaṇaṃ yunájan ||
Thus we call for your protection and shelter, O Mitra and Varuṇa, unfailing in help; when the rays of Light follow and yoke the straight-going, impetuous and victorious force in the battle-field of the being.
अ॒वोः । इ॒त्था । वा॒म् । छ॒र्दिषः॑ । अ॒भिष्टौ॑ । यु॒वोः । मि॒त्रा॒व॒रु॒णौ । अस्कृ॑धोयु । अनु॑ । यत् । गावः॑ । स्फु॒रान् । ऋ॒जि॒प्यम् । धृ॒ष्णुम् । यत् । रणे॑ । वृष॑णम् । यु॒नज॑न् ॥अवोः । इत्था । वाम् । छर्दिषः । अभिष्टौ । युवोः । मित्रावरुणौ । अस्कृधोयु । अनु । यत् । गावः । स्फुरान् । ऋजिप्यम् । धृष्णुम् । यत् । रणे । वृषणम् । युनजन् ॥avoḥ | itthā | vām | chardiṣaḥ | abhiṣṭau | yuvoḥ | mitrāvaruṇau | askṛdhoyu | anu | yat | gāvaḥ | sphurān | ṛjipyam | dhṛṣṇum | yat | raṇe | vṛṣaṇam | yunajan