Sukta 6.66
तं वृधन्तं मारुतं भ्राजदृष्टिं रुद्रस्य सूनुं हवसा विवासे । दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन् ॥
तं वृ॒धन्तं॒ मारु॑तं॒ भ्राज॑दृष्टिं रु॒द्रस्य॑ सू॒नुं ह॒वसा वि॑वासे । दि॒वः शर्धा॑य॒ शुच॑यो मनी॒षा गि॒रयो॒ नाप॑ उ॒ग्रा अ॑स्पृध्रन् ॥
táṃ vṛdhántaṃ mārútaṃ bhrā́jad-ṛṣṭiṃ rudrásya sūnúṃ havásā vivāse | diváḥ śárdhāya śúcayo manīṣā́ giráyo nā́pa ugrā́ aspṛdhran ||
That growing Marut-power with the shining spear, Rudra’s son, I worship by the call of aspiration. For the bright host of heaven my thought becomes pure; like mountains, like fierce waters, they press forward in irresistible contention.
तम् । वृ॒धन्त॑म् । मारु॑तम् । भ्राज॑त्ऽऋष्टिम् । रु॒द्रस्य॑ । सू॒नुम् । ह॒वसा॑ । आ । वि॒वा॒से॒ । दि॒वः । शर्धा॑य । शुच॑यः । म॒नी॒षा । गि॒रयः॑ । न । आपः॑ । उ॒ग्राः । अ॒स्पृ॒ध्र॒न् ॥तम् । वृधन्तम् । मारुतम् । भ्राजत्ऋष्टिम् । रुद्रस्य । सूनुम् । हवसा । आ । विवासे । दिवः । शर्धाय । शुचयः । मनीषा । गिरयः । न । आपः । उग्राः । अस्पृध्रन् ॥tam | vṛdhantam | mārutam | bhrājat-ṛṣṭim | rudrasya | sūnum | havasā | ā | vivāse | divaḥ | śardhāya | śucayaḥ | manīṣā | girayaḥ | na | āpaḥ | ugrāḥ | aspṛdhran