Sukta 6.61
इयमददाद्रभसमृणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे । या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ॥
इ॒यम॑ददाद्रभ॒समृ॑ण॒च्युतं॒ दिवो॑दासं वध्र्य॒श्वाय॑ दा॒शुषे॑ । या शश्व॑न्तमाच॒खादा॑व॒सं प॒णिं ता ते॑ दा॒त्राणि॑ तवि॒षा स॑रस्वति ॥
iyam adadād rabhasam ṛṇa-cyutaṃ divodāsaṃ vadhry-aśvāya dāśuṣe | yā śaśvantam ācakhādāvasam paṇiṃ tā te dātrāṇi taviṣā sarasvati ||
She gave the impetuous, debt-releasing strength to Divodāsa, to Vadhryaśva who offers. She who struck down the ever-enduring Paṇi, the niggard hoarder of the gain—those are your gifts of force, O Sarasvatī.
इ॒यम् । अ॒द॒दा॒त् । र॒भ॒सम् । ऋ॒ण॒ऽच्युत॑म् । दिवः॑ऽदासम् । व॒ध्रि॒ऽअ॒श्वाय॑ । दा॒शुषे॑ । या । शश्व॑न्तम् । आ॒ऽच॒खाद॑ । अ॒व॒सम् । प॒णिम् । ता । ते॒ । दा॒त्राणि॑ । त॒वि॒षा । स॒र॒स्व॒ति॒ ॥इयम् । अददात् । रभसम् । ऋणच्युतम् । दिवःदासम् । वध्रिअश्वाय । दाशुषे । या । शश्वन्तम् । आचखाद । अवसम् । पणिम् । ता । ते । दात्राणि । तविषा । सरस्वति ॥iyam | adadāt | rabhasam | ṛṇa-cyutam | divaḥ-dāsam | vadhri-aśvāya | dāśuṣe | yā | śaśvantam | ācakhāda | avasam | paṇim | tā | te | dātrāṇi | taviṣā | sarasvati