Sukta 6.60
उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै । उभा दाताराविषां रयीणामुभा वाजस्य सातये हुवे वाम् ॥
उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ । उ॒भा दा॒तारा॑वि॒षां र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥
ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai | ubhā dātārāviṣāṃ rayīṇām ubhā vājasya sātaye huve vām ||
O Indra-and-Agni, I call on you both to be invoked; I call on you both to rejoice together in the plenitudes. You are both givers of the impulsions (iṣāḥ) and the inner riches (rayīḥ); I invoke you both for the winning of the vāja— the fullness of victorious force.
उ॒भा । वा॒म् । इ॒न्द्रा॒ग्नी॒ इति॑ । आ॒ऽहु॒वध्यै॑ । उ॒भा । राध॑सः । स॒ह । मा॒द॒यध्यै॑ । उ॒भा । दा॒तारौ॑ । इ॒षाम् । र॒यी॒णाम् । उ॒भा । वाज॑स्य । सा॒तये॑ । हु॒वे॒ । वा॒म् ॥उभा । वाम् । इन्द्राग्नी इति । आहुवध्यै । उभा । राधसः । सह । मादयध्यै । उभा । दातारौ । इषाम् । रयीणाम् । उभा । वाजस्य । सातये । हुवे । वाम् ॥ubhā | vām | indrāgnī iti | āhuvadhyai | ubhā | rādhasaḥ | saha | mādayadhyai | ubhā | dātārau | iṣām | rayīṇām | ubhā | vājasya | sātaye | huve | vām