Sukta 6.60
य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः । द्युम्नाय सुतरा अपः ॥
य इ॒द्ध आ॒विवा॑सति सु॒म्नमिन्द्र॑स्य॒ मर्त्य॑: । द्यु॒म्नाय॑ सु॒तरा॑ अ॒पः ॥
yá iddhá āvivā́sati sumnám índrasya mártyaḥ | dyumnā́ya sutárā́ apáḥ ||
The mortal who, when the Fire is kindled, serves to win the gracious favour of Indra, finds the currents that carry him safely towards luminous victory.
यः । इ॒द्धे । आ॒ऽविवा॑सति । सु॒म्नम् । इन्द्र॑स्य । मर्त्यः॑ । द्यु॒म्नाय॑ । सु॒ऽतराः॑ । अ॒पः ॥यः । इद्धे । आविवासति । सुम्नम् । इन्द्रस्य । मर्त्यः । द्युम्नाय । सुतराः । अपः ॥yaḥ | iddhe | āvivāsati | sumnam | indrasya | martyaḥ | dyumnāya | su-tarāḥ | apaḥ