Sukta 6.60
श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥
श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् । इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरे॒: सह॑स्तमा॒ सह॑सा वाज॒यन्ता॑ ॥
śnáthad vṛtrám utá sanóti vā́jam indrā́ yó agnī́ sahúrī saparyā́t | irajyántā vasavyásya bhū́reḥ sáhas-tamā sáhasā vāja-yántā ||
He breaks the coverer and wins the plenitude of force—Indra, who with Agni, the two mighty ones, is rightly served. They strive for the abundant good, most strong in strength, making the powers of victory grow within us.
श्नथ॑त् । वृ॒त्रम् । उ॒त । स॒नो॒ति॒ । वाज॑म् । इन्द्रा॑ । यः । अ॒ग्नी इति॑ । सहु॑री॒ इति॑ । स॒प॒र्यात् । इ॒र॒ज्यन्ता॑ । व॒स॒व्य॑स्य । भूरेः॒ । सहः॑ऽतमा॑ । सह॑सा । वा॒ज॒ऽयन्ता॑ ॥श्नथत् । वृत्रम् । उत । सनोति । वाजम् । इन्द्रा । यः । अग्नी इति । सहुरी इति । सपर्यात् । इरज्यन्ता । वसव्यस्य । भूरेः । सहःतमा । सहसा । वाजयन्ता ॥śnathat | vṛtram | uta | sanoti | vājam | indrā | yaḥ | agnī iti | sahurī iti | saparyāt | irajyantā | vasavyasya | bhūreḥ | sahaḥ-tamā | sahasā | vāja-yantā