Sukta 6.57
इन्द्रा नु पूषणा वयं सख्याय स्वस्तये । हुवेम वाजसातये ॥
इन्द्रा॒ नु पू॒षणा॑ व॒यं स॒ख्याय॑ स्व॒स्तये॑ । हु॒वेम॒ वाज॑सातये ॥
índrā nú pūṣáṇā vayáṃ sakhyā́ya svastáye | huvémā vāja-sātáye ||
Indra and Pūṣan—now we call you for comradeship and for well-being, for the winning of plenitude of force (vāja).
इन्द्रा॑ । नु । पू॒षणा॑ । व॒यम् । स॒ख्याय॑ । स्व॒स्तये॑ । हु॒वेम॑ । वाज॑ऽसातये ॥इन्द्रा । नु । पूषणा । वयम् । सख्याय । स्वस्तये । हुवेम । वाजसातये ॥indrā | nu | pūṣaṇā | vayam | sakhyāya | svastaye | huvema | vāja-sātaye