Sukta 6.56
इमं च नो गवेषणं सातये सीषधो गणम् । आरात्पूषन्नसि श्रुतः ॥
इ॒मं च॑ नो ग॒वेष॑णं सा॒तये॑ सीषधो ग॒णम् । आ॒रात्पू॑षन्नसि श्रु॒तः ॥
imáṃ ca no gaveṣáṇaṃ sātáye sīṣadho gaṇám | ārā́t pūṣann asi śrutáḥ ||
And this our seeking of the Rays (cows) for the winning—this band that presses forward—hear from near, O Pūṣan; you are the one who is known to respond.
इ॒मम् । च॒ । नः॒ । गो॒ऽएष॑णम् । सा॒तये॑ । सी॒स॒धः॒ । ग॒णम् । आ॒रात् । पू॒ष॒न् । अ॒सि॒ । श्रु॒तः ॥इमम् । च । नः । गोएषणम् । सातये । सीसधः । गणम् । आरात् । पूषन् । असि । श्रुतः ॥imam | ca | naḥ | go--eṣaṇam | sātaye | sīsadhaḥ | gaṇam | ārāt | pūṣan | asi | śrutaḥ