Sukta 6.56
आ ते स्वस्तिमीमह आरेअघामुपावसुम् । अद्या च सर्वतातये श्वश्च सर्वतातये ॥
आ ते॑ स्व॒स्तिमी॑मह आ॒रेअ॑घा॒मुपा॑वसुम् । अ॒द्या च॑ स॒र्वता॑तये॒ श्वश्च॑ स॒र्वता॑तये ॥
ā́ te svastím īmahe ārḗ’ghām upā́vasum | adyā́ ca sarvátātaye śváś ca sarvátātaye ||
We seek from you well-being—keeping evil far away and bringing near the true wealth; for wholeness today and for wholeness tomorrow.
आ । ते॒ । स्व॒स्तिम् । ई॒म॒हे॒ । आ॒रेऽअ॑घाम् । उप॑ऽवसुम् । अ॒द्य । च॒ । स॒र्वऽता॑तये । श्वः । च॒ । स॒र्वऽता॑तये ॥आ । ते । स्वस्तिम् । ईमहे । आरेअघाम् । उपवसुम् । अद्य । च । सर्वतातये । श्वः । च । सर्वतातये ॥ā | te | svastim | īmahe | āre--aghām | upa-vasum | adya | ca | sarva-tātaye | śvaḥ | ca | sarva-tātaye