Sukta 6.56
उत घा स रथीतमः सख्या सत्पतिर्युजा । इन्द्रो वृत्राणि जिघ्नते ॥
उ॒त घा॒ स र॒थीत॑म॒: सख्या॒ सत्प॑तिर्यु॒जा । इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते ॥
utá ghā́ sá rathītamáḥ sakhyā́ sátpatir yujā́ | índro vṛtrā́ṇi jighnate ||
And indeed he, the best of charioteers, the lord of the true home through comradeship and yoking—Indra strikes down the obstructing powers; thus he clears the path for our progress.
उ॒त । घ॒ । सः । र॒थिऽत॑मः । सख्या॑ । सत्ऽप॑तिः । यु॒जा । इन्द्रः॑ । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ॥उत । घ । सः । रथितमः । सख्या । सत्पतिः । युजा । इन्द्रः । वृत्राणि । जिघ्नते ॥uta | gha | saḥ | rathi-tamaḥ | sakhyā | sat-patiḥ | yujā | indraḥ | vṛtrāṇi | jighnate