Sukta 6.52
उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये । सुमृळीका भवन्तु नः ॥
उप॑ नः सू॒नवो॒ गिर॑: शृ॒ण्वन्त्व॒मृत॑स्य॒ ये । सु॒मृ॒ळी॒का भ॑वन्तु नः ॥
úpa naḥ sū́navo gíraḥ śṛṇvantu amṛ́tasya yé | su-mṛḷīkā́ bhavantu naḥ ||
May the sons of immortality hear our utterances as they draw near; may they become for us full of graciousness—powers that answer with healing kindness to the soul’s call.
उप॑ । नः॒ । सू॒नवः॑ । गिरः॑ । शृ॒ण्वन्तु॑ । अ॒मृत॑स्य । ये । सु॒ऽमृ॒ळी॒काः । भ॒व॒न्तु॒ । नः॒ ॥उप । नः । सूनवः । गिरः । शृण्वन्तु । अमृतस्य । ये । सुमृळीकाः । भवन्तु । नः ॥upa | naḥ | sūnavaḥ | giraḥ | śṛṇvantu | amṛtasya | ye | su-mṛḷīkāḥ | bhavantu | naḥ