Sukta 6.52
विश्वे देवा ऋतावृध ऋतुभिर्हवनश्रुतः । जुषन्तां युज्यं पयः ॥
विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुत॑: । जु॒षन्ता॒ युज्यं॒ पय॑: ॥
víśve devā́ ṛtā-vṛ́dha ṛtúbhir havana-śrútaḥ | juṣántā yújyaṃ páyaḥ ||
All you Gods who increase by the Truth, who hear the invocation in its right seasons—take delight in the yoked milk: the nourishment of a disciplined offering, joined to the cosmic order.
विश्वे॑ । दे॒वाः । ऋ॒त॒ऽवृधः॑ । ऋ॒तुऽभिः॑ । ह॒व॒न॒ऽश्रुतः॑ । जु॒षन्ता॑म् । युज्य॑म् । पयः॑ ॥विश्वे । देवाः । ऋतवृधः । ऋतुभिः । हवनश्रुतः । जुषन्ताम् । युज्यम् । पयः ॥viśve | devāḥ | ṛta-vṛdhaḥ | ṛtu-bhiḥ | havana-śrutaḥ | juṣantām | yujyam | payaḥ