Sukta 6.52
इन्द्रो नेदिष्ठमवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना । पर्जन्यो न ओषधीभिर्मयोभुरग्निः सुशंसः सुहवः पितेव ॥
इन्द्रो॒ नेदि॑ष्ठ॒मव॒साग॑मिष्ठ॒: सर॑स्वती॒ सिन्धु॑भि॒: पिन्व॑माना । प॒र्जन्यो॑ न॒ ओष॑धीभिर्मयो॒भुर॒ग्निः सु॒शंस॑: सु॒हव॑: पि॒तेव॑ ॥
índro néd iṣṭham avasā́gamiṣṭhaḥ sárasvatī síndhubhiḥ pínvamānā | parjányo na oṣádhībhir mayobhúr agníḥ su-śáṃsaḥ su-hávaḥ pitā́iva ||
May Indra come nearest with his help; may Sarasvatī, swelling with the rivers, increase in us. May Parjanya become for us a bringer of delight through the plants; may Agni—well-praised, easy to invoke—be to us like a father, guiding and sustaining the inner offering.
इन्द्रः॑ । नेदि॑ष्ठम् । अव॑सा । आऽग॑मिष्ठः । सर॑स्वती । सिन्धु॑ऽभिः । पिन्व॑माना । प॒र्जन्यः॑ । नः॒ । ओष॑धीभिः । म॒यः॒ऽभुः । अ॒ग्निः । सु॒ऽशंसः॑ । सु॒ऽहवः॑ । पि॒ताऽइ॑व ॥इन्द्रः । नेदिष्ठम् । अवसा । आगमिष्ठः । सरस्वती । सिन्धुभिः । पिन्वमाना । पर्जन्यः । नः । ओषधीभिः । मयःभुः । अग्निः । सुशंसः । सुहवः । पिताइव ॥indraḥ | nediṣṭham | avasā | āgamiṣṭhaḥ | sarasvatī | sindhu-bhiḥ | pinvamānā | parjanyaḥ | naḥ | oṣadhībhiḥ | mayaḥ-bhuḥ | agniḥ | su-śaṃsaḥ | su-havaḥ | pitāiva