Sukta 6.52
विश्वदानीं सुमनसः स्याम पश्येम नु सूर्यमुच्चरन्तम् । तथा करद्वसुपतिर्वसूनां देवाँ ओहानोऽवसागमिष्ठः ॥
वि॒श्व॒दानीं॑ सु॒मन॑सः स्याम॒ पश्ये॑म॒ नु सूर्य॑मु॒च्चर॑न्तम् । तथा॑ कर॒द्वसु॑पति॒र्वसू॑नां दे॒वाँ ओहा॒नोऽव॒साग॑मिष्ठः ॥
viśva-dā́nīṃ su-mánasaḥ syāma páśyema nú sū́ryam uccárantam | tathā́ karad vásu-pátir vásūnāṃ devā́n ohā́no’vasā́gamiṣṭhaḥ ||
May we be at all times of a clear and harmonious mind; may we behold the Sun as he rises. Thus may the Lord of the riches shape it—bringing the Gods near with his help—so that our being is filled with the true plenitudes.
वि॒श्व॒ऽदानी॑म् । सु॒ऽमन॑सः । स्या॒म॒ । पश्ये॑म । नु । सूर्य॑म् । उ॒च्चर॑न्तम् । तथा॑ । क॒र॒त् । वसु॑ऽपतिः । वसू॑नाम् । दे॒वान् । ओहा॑नः । अव॑सा । आऽग॑मिष्ठः ॥विश्वदानीम् । सुमनसः । स्याम । पश्येम । नु । सूर्यम् । उच्चरन्तम् । तथा । करत् । वसुपतिः । वसूनाम् । देवान् । ओहानः । अवसा । आगमिष्ठः ॥viśva-dānīm | su-manasaḥ | syāma | paśyema | nu | sūryam | uccarantam | tathā | karat | vasu-patiḥ | vasūnām | devān | ohānaḥ | avasā | āgamiṣṭhaḥ