Sukta 6.52
किमङ्ग त्वा ब्रह्मणः सोम गोपां किमङ्ग त्वाहुरभिशस्तिपां नः । किमङ्ग नः पश्यसि निद्यमानान्ब्रह्मद्विषे तपुषिं हेतिमस्य ॥
किम॒ङ्ग त्वा॒ ब्रह्म॑णः सोम गो॒पां किम॒ङ्ग त्वा॑हुरभिशस्ति॒पां न॑: । किम॒ङ्ग न॑: पश्यसि नि॒द्यमा॑नान्ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ॥
kím aṅgá tvā bráhmaṇaḥ soma gopā́ṃ kím aṅgá tvāhur abhiśastipā́ṃ naḥ | kím aṅgá naḥ páśyasi nidyámānān brahma-dvíṣe tápuṣiṃ hétim asyá ||
Why indeed do they call you, O Soma, the guardian of the brahman? Why do they name you the protector of us against hostile imprecation? Why do you look upon us when we are being blamed—so that against the hater of the sacred Word you may cast the burning weapon of your force?
किम् । अ॒ङ्ग । त्वा॒ । ब्रह्म॑णः । सो॒म॒ । गो॒पाम् । किम् । अ॒ङ्ग । त्वा॒ । आ॒हुः॒ । अ॒भि॒श॒स्ति॒ऽपाम् । नः॒ । किम् । अ॒ङ्ग । नः॒ । प॒श्य॒सि॒ । नि॒द्यमा॑नान् । ब्र॒ह्म॒ऽद्विषे॑ । तपु॑षिम् । हे॒तिम् । अ॒स्य॒ ॥किम् । अङ्ग । त्वा । ब्रह्मणः । सोम । गोपाम् । किम् । अङ्ग । त्वा । आहुः । अभिशस्तिपाम् । नः । किम् । अङ्ग । नः । पश्यसि । निद्यमानान् । ब्रह्मद्विषे । तपुषिम् । हेतिम् । अस्य ॥kim | aṅga | tvā | brahmaṇaḥ | soma | gopām | kim | aṅga | tvā | āhuḥ | abhiśasti-pām | naḥ | kim | aṅga | naḥ | paśyasi | nidyamānān | brahma-dviṣe | tapuṣim | hetim | asya