Sukta 6.52
अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात् । तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषमभि तं शोचतु द्यौः ॥
अति॑ वा॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यः क्रि॒यमा॑णं॒ निनि॑त्सात् । तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विष॑म॒भि तं शो॑चतु॒ द्यौः ॥
áti vā́ yó maruto mányate no bráhma vā́ yáḥ kriyámāṇaṃ nínitsāt | tapā́ūṃṣi tásmai vṛjinā́ni santu brahma-dvíṣam abhí táṃ śócatu dyáuḥ ||
Whoever, O Maruts, thinks himself beyond us, or whoever seeks to undermine the sacred Word as it is being wrought—let burning pressures and crooked misfortunes be his portion. Let Heaven itself blaze against that hater of the brahman, exposing him to the consuming light.
अति॑ । वा॒ । यः । म॒रु॒तः॒ । मन्य॑ते । नः॒ । ब्रह्म॑ । वा॒ । यः । क्रि॒यमा॑णम् । निनि॑त्सात् । तपूं॑षि । तस्मै॑ । वृ॒जि॒नानि॑ । स॒न्तु॒ । ब्र॒ह्म॒ऽद्विष॑म् । अ॒भि । तम् । शो॒च॒तु॒ । द्यौः ॥अति । वा । यः । मरुतः । मन्यते । नः । ब्रह्म । वा । यः । क्रियमाणम् । निनित्सात् । तपूंषि । तस्मै । वृजिनानि । सन्तु । ब्रह्मद्विषम् । अभि । तम् । शोचतु । द्यौः ॥ati | vā | yaḥ | marutaḥ | manyate | naḥ | brahma | vā | yaḥ | kriyamāṇam | ninitsāt | tapāūṃṣi | tasmai | vṛjināni | santu | brahma-dviṣam | abhi | tam | śocatu | dyauḥ