Sukta 6.52
न तद्दिवा न पृथिव्यानु मन्ये न यज्ञेन नोत शमीभिराभिः । उब्जन्तु तं सुभ्वः पर्वतासो नि हीयतामतियाजस्य यष्टा ॥
न तद्दि॒वा न पृ॑थि॒व्यानु॑ मन्ये॒ न य॒ज्ञेन॒ नोत शमी॑भिरा॒भिः । उ॒ब्जन्तु॒ तं सु॒भ्व१॒॑: पर्व॑तासो॒ नि ही॑यतामतिया॒जस्य॑ य॒ष्टा ॥
ná tád divā́ ná pṛthivyā́ ánu manye ná yajñéna nóta śamī́bhir ābhíḥ | ubjántu táṃ subhvàḥ párvatāso ní hīyatām atiyā́jasya yaṣṭā́ ||
Not by the height of Heaven nor by the breadth of Earth do I measure it; not by sacrifice-forms, nor even by these pacifying acts. Let the firm, luminous powers (the ‘mountains’) press down that one; let the over-sacrificer, the misguided offerer, be made to fall away—his force diminished from the path.
न । तत् । दि॒वा । न । पृ॒थि॒व्या । अनु॑ । म॒न्ये॒ । न । य॒ज्ञेन॑ । न । उ॒त । शमी॑भिः । आ॒भिः । उ॒ब्जन्तु॑ । तम् । सु॒ऽभ्वः॑ । पर्व॑तासः । नि । ही॒य॒ता॒म् । अ॒ति॒ऽया॒जस्य॑ । य॒ष्टा ॥न । तत् । दिवा । न । पृथिव्या । अनु । मन्ये । न । यज्ञेन । न । उत । शमीभिः । आभिः । उब्जन्तु । तम् । सुभ्वः । पर्वतासः । नि । हीयताम् । अतियाजस्य । यष्टा ॥na | tat | divā | na | pṛthivyā | anu | manye | na | yajñena | na | uta | śamībhiḥ | ābhiḥ | ubjantu | tam | su-bhvaḥ | parvatāsaḥ | ni | hīyatām | ati-yājasya | yaṣṭā