Sukta 6.52
ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे । ते अस्मभ्यमिषये विश्वमायुः क्षप उस्रा वरिवस्यन्तु देवाः ॥
ये के च॒ ज्मा म॒हिनो॒ अहि॑माया दि॒वो ज॑ज्ञि॒रे अ॒पां स॒धस्थे॑ । ते अ॒स्मभ्य॑मि॒षये॒ विश्व॒मायु॒: क्षप॑ उ॒स्रा व॑रिवस्यन्तु दे॒वाः ॥
yé ke ca jmā́ mahíno áhīmāyā divó jajñiré apā́ṃ sadhásthe | té asmábhyam iṣáye víśvam ā́yuḥ kṣápa usrā́ varivasyantu devā́ḥ ||
Whatever mighty ones, free from the serpent’s illusion, were born of Heaven or in the seat of the Waters—may those gods widen for us the path for our increase: the whole span of life, the nights and the dawn-lights.
ये । के । च॒ । ज्मा । म॒हिनः॑ । अहि॑ऽमायाः । दि॒वः । ज॒ज्ञि॒रे । अ॒पाम् । स॒धऽस्थे॑ । ते । अ॒स्मभ्य॑म् । इ॒षये॑ । विश्व॑म् । आयुः॑ । क्षपः॑ । उ॒स्राः । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ॥ये । के । च । ज्मा । महिनः । अहिमायाः । दिवः । जज्ञिरे । अपाम् । सधस्थे । ते । अस्मभ्यम् । इषये । विश्वम् । आयुः । क्षपः । उस्राः । वरिवस्यन्तु । देवाः ॥ye | ke | ca | jmā | mahinaḥ | ahi-māyāḥ | divaḥ | jajñire | apām | sadha-sthe | te | asmabhyam | iṣaye | viśvam | āyuḥ | kṣapaḥ | usrāḥ | varivasyantu | devāḥ