Sukta 6.52
विश्वे देवा मम शृण्वन्तु यज्ञिया उभे रोदसी अपां नपाच्च मन्म । मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद्वो अन्तमा मदेम ॥
विश्वे॑ दे॒वा मम॑ शृण्वन्तु य॒ज्ञिया॑ उ॒भे रोद॑सी अ॒पां नपा॑च्च॒ मन्म॑ । मा वो॒ वचां॑सि परि॒चक्ष्या॑णि वोचं सु॒म्नेष्विद्वो॒ अन्त॑मा मदेम ॥
viśve devā mama śṛṇvantu yajñiyā ubhé rodasī apā́m nápāccá mánma | mā vo vacā́ṃsi paricákṣyāṇi vocaṃ sumnéṣvid vo antámā mademá ||
May all the gods, worthy of sacrifice, hear my thought—both Heaven and Earth, and the Child of the Waters. May I not speak words that you must reproach; in your graciousness may we become most inwardly near and rejoice.
विश्वे॑ । दे॒वाः । मम॑ । शृ॒ण्व॒न्तु॒ । य॒ज्ञियाः॑ । उ॒भे इति॑ । रोद॑सी॒ इति॑ । अ॒पाम् । नपा॑त् । च॒ । मन्म॑ । मा । वः॒ । वचां॑सि । प॒रि॒ऽचक्ष्या॑णि । वो॒च॒म् । सु॒म्नेषु॑ । इत् । वः॒ । अन्त॑माः । म॒दे॒म॒ ॥विश्वे । देवाः । मम । शृण्वन्तु । यज्ञियाः । उभे इति । रोदसी इति । अपाम् । नपात् । च । मन्म । मा । वः । वचांसि । परिचक्ष्याणि । वोचम् । सुम्नेषु । इत् । वः । अन्तमाः । मदेम ॥viśve | devāḥ | mama | śṛṇvantu | yajñiyāḥ | ubhe iti | rodasī iti | apām | napāt | ca | manma | mā | vaḥ | vacāṃsi | pari-cakṣyāṇi | vocam | sumneṣu | it | vaḥ | antamāḥ | madema