Sukta 6.52
विश्वे देवाः शृणुतेमं हवं मे ये अन्तरिक्षे य उप द्यवि ष्ठ । ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन्बर्हिषि मादयध्वम् ॥
विश्वे॑ देवाः शृणु॒तेमं हवं॑ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥
viśve devāḥ śṛṇutémáṃ hávaṃ me yé antárikṣe yá upa dyávi ṣṭhá | yé agnijihvā́ utá vā́ yájatṛā āsádyāsmín barhíṣi mādayadhvam ||
O all you gods, hear this my call—whether you stand in the mid-world or near the heaven; whether you are fire-tongued or worthy of sacrifice: sit down upon this seat of offering and take delight in the oblation.
विश्वे॑ । दे॒वाः॒ । शृ॒णु॒त । इ॒मम् । हव॑म् । मे॒ । ये । अ॒न्तरि॑क्षे । ये । उप॑ । द्यवि॑ । स्थ । ये । अ॒ग्नि॒ऽजि॒ह्वाः । उ॒त । वा॒ । यज॑त्राः । आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒ध्व॒म् ॥विश्वे । देवाः । शृणुत । इमम् । हवम् । मे । ये । अन्तरिक्षे । ये । उप । द्यवि । स्थ । ये । अग्निजिह्वाः । उत । वा । यजत्राः । आसद्य । अस्मिन् । बर्हिषि । मादयध्वम् ॥viśve | devāḥ | śṛṇuta | imam | havam | me | ye | antarikṣe | ye | upa | dyavi | stha | ye | agni-jihvāḥ | uta | vā | yajatrāḥ | āsadya | asmin | barhiṣi | mādayadhvam