Sukta 6.51
ऋतस्य वो रथ्यः पूतदक्षानृतस्य पस्त्यसदो अदब्धान् । ताँ आ नमोभिरुरुचक्षसो नॄन्विश्वान्व आ नमे महो यजत्राः ॥
ऋ॒तस्य॑ वो र॒थ्य॑: पू॒तद॑क्षानृ॒तस्य॑ पस्त्य॒सदो॒ अद॑ब्धान् । ताँ आ नमो॑भिरुरु॒चक्ष॑सो॒ नॄन्विश्वा॑न्व॒ आ न॑मे म॒हो य॑जत्राः ॥
ṛtásya vo rathyàḥ pūtá-dakṣān ṛtásya pastyá-sado adábdhān | tā́n ā́ namóbhir uru-cákṣaso nṝ́n víśvān vo ā́ name mahó yajatrāḥ ||
You are the charioteers of ṛta, with purified discernment; you sit in the home of ṛta, unbetrayable. Those wide-seeing heroic powers—all of you—I bow to with acts of reverence, O great and worthy of sacrifice.
ऋ॒तस्य॑ । वः॒ । र॒थ्यः॑ । पू॒तऽद॑क्षान् । ऋ॒तस्य॑ । प॒स्त्य॒ऽसदः॑ । अद॑ब्धान् । तान् । आ । नमः॑ऽभिः । उ॒रु॒ऽचक्ष॑सः । नॄन् । विश्वा॑न् । वः॒ । आ । न॒मे॒ । म॒हः । य॒ज॒त्राः॒ ॥ऋतस्य । वः । रथ्यः । पूतदक्षान् । ऋतस्य । पस्त्यसदः । अदब्धान् । तान् । आ । नमःभिः । उरुचक्षसः । नॄन् । विश्वान् । वः । आ । नमे । महः । यजत्राः ॥ṛtasya | vaḥ | rathyaḥ | pūta-dakṣān | ṛtasya | pastya-sadaḥ | adabdhān | tān | ā | namaḥ-bhiḥ | uru-cakṣasaḥ | nṝn | viśvān | vaḥ | ā | name | mahaḥ | yajatrāḥ