Sukta 6.51
द्यौष्पितः पृथिवि मातरध्रुगग्ने भ्रातर्वसवो मृळता नः । विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त ॥
द्यौ॒३॒॑ष्पित॒: पृथि॑वि॒ मात॒रध्रु॒गग्ने॑ भ्रातर्वसवो मृ॒ळता॑ नः । विश्व॑ आदित्या अदिते स॒जोषा॑ अ॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य॑न्त ॥
dyáuḥ pitáḥ pṛ́thivi mā́tar ádhru g ágne bhrātar vasavo mṛḷátā naḥ | víśva ādityā adite sajóṣā asmábhyaṃ śárma bahuláṃ ví yanta ||
Heaven our Father, Earth our Mother, unfailing; Agni our brother—O Vasus, be gracious to us. O all Ādityas, O Aditi, in one accord, extend for us a wide peace and shelter, a many-sided protection for the soul’s growth.
द्यौः॑ । पितः॑ । पृ॒थि॑वि । मातः॑ । अध्रु॑क् । अग्ने॑ । भ्रा॒तः॒ । व॒स॒वः॒ । मृ॒ळत॑ । नः॒ । विश्वे॑ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । स॒ऽजोषाः॑ । अ॒स्मभ्य॑म् । शर्म॑ । ब॒हु॒लम् । वि । य॒न्त॒ ॥द्यौः । पितः । पृथिवि । मातः । अध्रुक् । अग्ने । भ्रातः । वसवः । मृळत । नः । विश्वे । आदित्याः । अदिते । सजोषाः । अस्मभ्यम् । शर्म । बहुलम् । वि । यन्त ॥dyauḥ | pitaḥ | pṛthivi | mātaḥ | adhruk | agne | bhrātaḥ | vasavaḥ | mṛḷata | naḥ | vi śve | ādityāḥ | adite | sa-joṣāḥ | asmabhyam | śarma | bahulam | vi | yanta