Sukta 6.51
मा नो वृकाय वृक्ये समस्मा अघायते रीरधता यजत्राः । यूयं हि ष्ठा रथ्यो नस्तनूनां यूयं दक्षस्य वचसो बभूव ॥
मा नो॒ वृका॑य वृ॒क्ये॑ समस्मा अघाय॒ते री॑रधता यजत्राः । यू॒यं हि ष्ठा र॒थ्यो॑ नस्त॒नूनां॑ यू॒यं दक्ष॑स्य॒ वच॑सो बभू॒व ॥
mā́ no vṛ́kāya vṛkyè samasmā aghāyáte rīradhata yajatrāḥ | yūyáṃ hí ṣṭhā rathyò nas tanū́nāṃ yūyáṃ dákṣasya vácaso babhūva ||
Do not hand us over to the wolf, to the wolfish one, to the one who wishes evil—O adorable powers; keep him far from us. For you are the charioteers of our bodies, you are the very mastery and the shaping word of our effective power (dakṣa).
मा । नः॒ । वृका॑य । वृ॒क्ये॑ । स॒म॒स्मै॒ । अ॒घ॒ऽय॒ते । री॒र॒ध॒त॒ । य॒ज॒त्राः॒ । यू॒यम् । हि । स्थ । र॒थ्यः॑ । नः॒ । त॒नूना॑म् । यू॒यम् । दक्ष॑स्य । वच॑सः । ब॒भू॒व ॥मा । नः । वृकाय । वृक्ये । समस्मै । अघयते । रीरधत । यजत्राः । यूयम् । हि । स्थ । रथ्यः । नः । तनूनाम् । यूयम् । दक्षस्य । वचसः । बभूव ॥mā | naḥ | vṛkāya | vṛkye | samasmai | agha-yate | rīradhata | yajatrāḥ | yūyam | hi | stha | rathyaḥ | naḥ | tanūnām | yūyam | dakṣasya | vacasaḥ | babhūva