Sukta 6.51
रिशादसः सत्पतीँरदब्धान्महो राज्ञः सुवसनस्य दातॄन् । यूनः सुक्षत्रान्क्षयतो दिवो नॄनादित्यान्याम्यदितिं दुवोयु ॥
रि॒शाद॑स॒: सत्प॑तीँ॒रद॑ब्धान्म॒हो राज्ञ॑: सुवस॒नस्य॑ दा॒तॄन् । यून॑: सुक्ष॒त्रान्क्षय॑तो दि॒वो नॄना॑दि॒त्यान्या॒म्यदि॑तिं दुवो॒यु ॥
riśā́dasaḥ sát-patīṃr ádabdhān mahó rājñáḥ suvasanásya dātṝ́n | yū́naḥ su-kṣatrā́n kṣáyato divó nṝ́n ādityā́n yā́my áditiṃ duvo-yú ||
I go to the Ādityas—consumers of harm, true lords, unbetrayable—givers of the wide-clothing King (the Vast). Youthful, of good sovereignty, dwelling in heaven as leaders among men, I approach Aditi desiring the gift of their grace and service.
रि॒शाद॑सः । सत्ऽप॑तीन् । अद॑ब्धान् । म॒हः । राज्ञः॑ । सु॒ऽव॒स॒नस्य॑ । दा॒तॄन् । यूनः॑ । सु॒ऽक्ष॒त्रान् । क्षय॑तः । दि॒वः । नॄन् । आ॒दि॒त्यान् । या॒मि॒ । अदि॑तिम् । दु॒वः॒ऽयु ॥रिशादसः । सत्पतीन् । अदब्धान् । महः । राज्ञः । सुवसनस्य । दातॄन् । यूनः । सुक्षत्रान् । क्षयतः । दिवः । नॄन् । आदित्यान् । यामि । अदितिम् । दुवःयु ॥riśādasaḥ | sat-patīn | adabdhān | mahaḥ | rājñaḥ | su-vasanasya | dātṝn | yūnaḥ | su-kṣatrān | kṣayataḥ | divaḥ | nṝn | ādityān | yāmi | aditim | duvaḥ-yu