Sukta 6.51
स्तुष उ वो मह ऋतस्य गोपानदितिं मित्रं वरुणं सुजातान् । अर्यमणं भगमदब्धधीतीनच्छा वोचे सधन्यः पावकान् ॥
स्तु॒ष उ॑ वो म॒ह ऋ॒तस्य॑ गो॒पानदि॑तिं मि॒त्रं वरु॑णं सुजा॒तान् । अ॒र्य॒मणं॒ भग॒मद॑ब्धधीती॒नच्छा॑ वोचे सध॒न्य॑: पाव॒कान् ॥
stúṣa u vo mahá ṛtásya gopā́n áditiṃ mitráṃ váruṇaṃ sujātā́n | aryamáṇaṃ bhágam ádabdha-dhītīn ácchā voce sa-dhanyáḥ pāvakā́n ||
I would utter to you the great guardians of the Truth: Aditi, Mitra, Varuṇa, well-born; Aryaman and Bhaga, whose thoughts are not deceived. To these purifying powers I speak straight, as one who seeks the true wealth of being.
स्तु॒षे । ऊँ॒ इति॑ । वः॒ । म॒हः । ऋ॒तस्य॑ । गो॒पान् । अदि॑तिम् । मि॒त्रम् । वरु॑णम् । सु॒ऽजा॒तान् । अ॒र्य॒मण॑म् । भग॑म् । अद॑ब्धऽधीतीन् । अच्छ॑ । वो॒चे॒ । स॒ऽध॒न्यः॑ । पा॒व॒कान् ॥स्तुषे । ऊँ इति । वः । महः । ऋतस्य । गोपान् । अदितिम् । मित्रम् । वरुणम् । सुजातान् । अर्यमणम् । भगम् । अदब्धधीतीन् । अच्छ । वोचे । सधन्यः । पावकान् ॥stuṣe | oṃ iti | vaḥ | mahaḥ | ṛtasya | gopān | aditim | mitram | varuṇam | su-jātān | aryamaṇam | bhagam | adabdha-dhītīn | accha | voce | sa-dhanyaḥ | pāvakān