Sukta 6.51
वेद यस्त्रीणि विदथान्येषां देवानां जन्म सनुतरा च विप्रः । ऋजु मर्तेषु वृजिना च पश्यन्नभि चष्टे सूरो अर्य एवान् ॥
वेद॒ यस्त्रीणि॑ वि॒दथा॑न्येषां दे॒वानां॒ जन्म॑ सनु॒तरा च॒ विप्र॑: । ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न्न॒भि च॑ष्टे॒ सूरो॑ अ॒र्य एवा॑न् ॥
véda yás trī́ṇi vidáthāny eṣā́ṃ devā́nāṃ jánma sanutárā ca vípraḥ | ṛjú márteṣu vṛjinā́ ca páśyann abhí caṣṭe sū́ro aryá evā́n ||
He is the illumined seer who knows their three assemblies and the birth of the gods and their ancient continuities. Seeing straight among mortals and also the crookedness, the Sun-like noble one looks upon all and makes the truth visible in our mixed human field.
वेद॑ । यः । त्रीणि॑ । वि॒दथा॑नि । ए॒षा॒म् । दे॒वाना॑म् । जन्म॑ । स॒नु॒तः । आ । च॒ । विप्रः॑ । ऋ॒जु । मर्ते॑षु । वृ॒जि॒ना । च॒ । पश्य॑न् । अ॒भि । च॒ष्टे॒ । सूरः॑ । अ॒र्यः । एवा॑न् ॥वेद । यः । त्रीणि । विदथानि । एषाम् । देवानाम् । जन्म । सनुतः । आ । च । विप्रः । ऋजु । मर्तेषु । वृजिना । च । पश्यन् । अभि । चष्टे । सूरः । अर्यः । एवान् ॥veda | yaḥ | trīṇi | vidathāni | eṣām | devānām | janma | sanutaḥ | ā | ca | vipraḥ | ṛju | marteṣu | vṛjinā | ca | paśyan | abhi | caṣṭe | sūraḥ | aryaḥ | evān