Sukta 6.51
नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता । आसानेभिर्यजमानो मियेधैर्देवानां जन्म वसूयुर्ववन्द ॥
नू स॒द्मानं॑ दि॒व्यं नंशि॑ देवा॒ भार॑द्वाजः सुम॒तिं या॑ति॒ होता॑ । आ॒सा॒नेभि॒र्यज॑मानो मि॒येधै॑र्दे॒वानां॒ जन्म॑ वसू॒युर्व॑वन्द ॥
nū́ sadmā́naṃ divyáṃ naṃśi devā bhā́rad-vājaḥ su-matíṃ yāti hótā | āsānébhir yájamāno miyédhair devā́nāṃ jánma vasūyúr vavanda ||
Now the gods attain their divine seat; Bharadvāja, the Hotṛ, goes toward the good mind. The sacrificer, with seated offerings and right measures, desiring plenitude, reverences the birth/origin of the gods.
नु । स॒द्मान॑म् । दि॒व्यम् । नंशि॑ । दे॒वाः॒ । भार॑त्ऽवाजः । सु॒ऽम॒तिम् । या॒ति॒ । होता॑ । आ॒सा॒नेभिः॑ । यज॑मानः । मि॒येधैः॑ । दे॒वाना॑म् । जन्म॑ । व॒सु॒ऽयुः । व॒व॒न्द॒ ॥नु । सद्मानम् । दिव्यम् । नंशि । देवाः । भारत्वाजः । सुमतिम् । याति । होता । आसानेभिः । यजमानः । मियेधैः । देवानाम् । जन्म । वसुयुः । ववन्द ॥nu | sadmānam | divyam | naṃśi | devāḥ | bhārat-vājaḥ | su-matim | yāti | hotā | āsānebhiḥ | yajamānaḥ | miyedhaiḥ | devānām | janma | vasu-yuḥ | vavanda