Sukta 6.51
ते न इन्द्रः पृथिवी क्षाम वर्धन्पूषा भगो अदितिः पञ्च जनाः । सुशर्माणः स्ववसः सुनीथा भवन्तु नः सुत्रात्रासः सुगोपाः ॥
ते न॒ इन्द्र॑: पृथि॒वी क्षाम॑ वर्धन्पू॒षा भगो॒ अदि॑ति॒: पञ्च॒ जना॑: । सु॒शर्मा॑ण॒: स्वव॑सः सुनी॒था भव॑न्तु नः सुत्रा॒त्रास॑: सुगो॒पाः ॥
té na índraḥ pṛthivī́ kṣā́ma vardhan pūṣā́ bhágo áditiḥ páñca jánāḥ | su-śármāṇaḥ svá-vasaḥ su-nīthā́ bhávantu naḥ su-trātrā́saḥ su-gópāḥ ||
May Indra, Earth, the wide realm, Pūṣan, Bhaga, Aditi, and the five kindreds increase us. May they become for us good shelter, self-effective helpers, good leaders—strong protectors and good guardians.
ते । नः॒ । इन्द्रः॑ । पृ॒थि॒वी । क्षाम॑ । व॒र्ध॒न् । पू॒षा । भगः॑ । अदि॑तिः । पञ्च॑ । जनाः॑ । सु॒ऽशर्मा॑णः । सु॒ऽअव॑सः । सु॒ऽनी॒थाः । भव॑न्तु । नः॒ । सु॒ऽत्रा॒त्रासः॑ । सु॒ऽगो॒पाः ॥ते । नः । इन्द्रः । पृथिवी । क्षाम । वर्धन् । पूषा । भगः । अदितिः । पञ्च । जनाः । सुशर्माणः । सुअवसः । सुनीथाः । भवन्तु । नः । सुत्रात्रासः । सुगोपाः ॥te | naḥ | indraḥ | pṛthivī | kṣāma | vardhan | pūṣā | bhagaḥ | aditiḥ | pañca | janāḥ | su-śarmāṇaḥ | su-avasaḥ | su-nīthāḥ | bhavantu | naḥ | su-trātrāsaḥ | su-gopāḥ