Sukta 6.50
उत नोऽहिर्बुध्न्यः शृणोत्वज एकपात्पृथिवी समुद्रः । विश्वे देवा ऋतावृधो हुवानाः स्तुता मन्त्राः कविशस्ता अवन्तु ॥
उ॒त नोऽहि॑र्बु॒ध्न्य॑: शृणोत्व॒ज एक॑पात्पृथि॒वी स॑मु॒द्रः । विश्वे॑ दे॒वा ऋ॑ता॒वृधो॑ हुवा॒नाः स्तु॒ता मन्त्रा॑: कविश॒स्ता अ॑वन्तु ॥
utá no áhír budhnyàḥ śṛṇotv ajá éka-pāt pṛthivī́ samudráḥ | víśve devā ṛtā-vṛ́dho huvānā́ḥ stutā́ mantrā́ḥ kavi-śastā́ avantu ||
And may Ahi Budhnya hear us, and Aja Ekapāt; may Earth and the Ocean support. May all the gods, increasers of the Truth, when called, protect—praised by mantras and celebrated by the seer’s word—so that our journey is kept in the right law.
उ॒त । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । शृ॒णो॒तु॒ । अ॒जः । एक॑ऽपात् । पृ॒थि॒वी । स॒मु॒द्रः । विश्वे॑ । दे॒वाः । ऋ॒त॒ऽवृधः॑ । हु॒वा॒नाः । स्तु॒ताः । मन्त्राः॑ । क॒वि॒ऽश॒स्ताः । अ॒व॒न्तु॒ ॥उत । नः । अहिः । बुध्न्यः । शृणोतु । अजः । एकपात् । पृथिवी । समुद्रः । विश्वे । देवाः । ऋतवृधः । हुवानाः । स्तुताः । मन्त्राः । कविशस्ताः । अवन्तु ॥uta | naḥ | ahiḥ | budhnyaḥ | śṛṇotu | ajaḥ | eka-pāt | pṛthivī | samudraḥ | viśve | devāḥ | ṛta-vṛdhaḥ | huvānāḥ | stutāḥ | mantrāḥ | kavi-śastāḥ | avantu