Sukta 6.5
स तत्कृधीषितस्तूयमग्ने स्पृधो बाधस्व सहसा सहस्वान् । यच्छस्यसे द्युभिरक्तो वचोभिस्तज्जुषस्व जरितुर्घोषि मन्म ॥
स तत्कृ॑धीषि॒तस्तूय॑मग्ने॒ स्पृधो॑ बाधस्व॒ सह॑सा॒ सह॑स्वान् । यच्छ॒स्यसे॒ द्युभि॑र॒क्तो वचो॑भि॒स्तज्जु॑षस्व जरि॒तुर्घोषि॒ मन्म॑ ॥
sa tat kṛdhīṣitas tūyam agne spṛdho bādhasva sahasā sahasvān | yac chasyase dyu-bhir akto vacobhis taj juṣasva jaritur ghoṣi manma ||
Do then that work, O Agni, swiftly when urged; drive away the rival powers, you who are strong with force. And whatever is proclaimed for you—brightened by days, anointed with words—accept it; make resound the thought of the singer.
सः । तत् । कृ॒धि॒ । इ॒षि॒तः । तूय॑म् । अ॒ग्ने॒ । स्पृधः॑ । बा॒ध॒स्व॒ । सह॑सा । सह॑स्वान् । यत् । श॒स्यसे॑ । द्युऽभिः॑ । अ॒क्तः । वचः॑ऽभिः । तत् । जु॒ष॒स्व॒ । ज॒रि॒तुः । घोषि॑ । मन्म॑ ॥सः । तत् । कृधि । इषितः । तूयम् । अग्ने । स्पृधः । बाधस्व । सहसा । सहस्वान् । यत् । शस्यसे । द्युभिः । अक्तः । वचःभिः । तत् । जुषस्व । जरितुः । घोषि । मन्म ॥saḥ | tat | kṛdhi | iṣitaḥ | tūyam | agne | spṛdhaḥ | bādhasva | sahasā | sahasvān | yat | śasyase | dyu-bhiḥ | aktaḥ | vacaḥ-bhiḥ | tat | juṣasva | jarituḥ | ghoṣi | manma