Sukta 6.5
हुवे वः सूनुं सहसो युवानमद्रोघवाचं मतिभिर्यविष्ठम् । य इन्वति द्रविणानि प्रचेता विश्ववाराणि पुरुवारो अध्रुक् ॥
हु॒वे व॑: सू॒नुं सह॑सो॒ युवा॑न॒मद्रो॑घवाचं म॒तिभि॒र्यवि॑ष्ठम् । य इन्व॑ति॒ द्रवि॑णानि॒ प्रचे॑ता वि॒श्ववा॑राणि पुरु॒वारो॑ अ॒ध्रुक् ॥
huve vaḥ sūnuṃ sahaso yuvānam adrogha-vācaṃ matibhir yaviṣṭham | ya invati draviṇāni pra-cetā viśva-vārāṇi puru-vāro adhruk ||
I call to you the youthful Son of Force, the one whose word does not betray, the youngest, approached by our thought. He, the wide-awake knower, impels the riches—treasures of every delight—abundant in gifts and unerring in his working.
हु॒वे । वः॒ । सू॒नुम् । सह॑सः । युवा॑नम् । अद्रो॑घऽवाचम् । म॒तिऽभिः॑ । यवि॑ष्ठम् । यः । इन्व॑ति । द्रवि॑णानि । प्रऽचे॑ताः । वि॒श्वऽवा॑राणि । पु॒रु॒ऽवारः॑ । अ॒ध्रुक् ॥हुवे । वः । सूनुम् । सहसः । युवानम् । अद्रोघवाचम् । मतिभिः । यविष्ठम् । यः । इन्वति । द्रविणानि । प्रचेताः । विश्ववाराणि । पुरुवारः । अध्रुक् ॥huve | vaḥ | sūnum | sahasaḥ | yuvānam | adrogha-vācam | mati-bhiḥ | yaviṣṭham | yaḥ | invati | draviṇāni | pra-cetāḥ | viśva-vārāṇi | puru-vāraḥ | adhruk