Sukta 6.49
प्रथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिमृभ्वम् । होता यक्षद्यजतं पस्त्यानामग्निस्त्वष्टारं सुहवं विभावा ॥
प्र॒थ॒म॒भाजं॑ य॒शसं॑ वयो॒धां सु॑पा॒णिं दे॒वं सु॒गभ॑स्ति॒मृभ्व॑म् । होता॑ यक्षद्यज॒तं प॒स्त्या॑नाम॒ग्निस्त्वष्टा॑रं सु॒हवं॑ वि॒भावा॑ ॥
prathamabhā́jaṃ yaśásaṃ vayodhā́ṃ supā́ṇiṃ deváṃ sugábhastim ṛ́bhvam | hótā yakṣad yájatam pastyā́nām agnístváṣṭāraṃ suhávaṃ vibhā́vā ||
Agni, the luminous one, as Hotṛ, may sacrifice to Tvāṣṭṛ—the first sharer, the glorious, the establisher of the life-powers, the god with good hands and fair grasp—he who is perfectly to be invoked for the dwelling-places of our being.
प्र॒थ॒म॒ऽभाज॑म् । य॒शस॑म् । व॒यः॒ऽधाम् । सु॒ऽपा॒णिम् । दे॒वम् । सु॒ऽगभ॑स्तिम् । ऋभ्व॑म् । होता॑ । य॒क्ष॒त् । य॒ज॒तम् । प॒स्त्या॑नाम् । अ॒ग्निः । त्वष्टा॑रम् । सु॒ऽहव॑म् । वि॒भाऽवा॑ ॥प्रथमभाजम् । यशसम् । वयःधाम् । सुपाणिम् । देवम् । सुगभस्तिम् । ऋभ्वम् । होता । यक्षत् । यजतम् । पस्त्यानाम् । अग्निः । त्वष्टारम् । सुहवम् । विभावा ॥prathama-bhājam | yaśasam | vayaḥ-dhām | su-pāṇim | devam | su-gabhastim | ṛbhvam | hotā | yakṣat | yajatam | pastyānām | agniḥ | tvaṣṭāram | su-havam | vibhāvā