Sukta 6.49
भुवनस्य पितरं गीर्भिराभी रुद्रं दिवा वर्धया रुद्रमक्तौ । बृहन्तमृष्वमजरं सुषुम्नमृधग्घुवेम कविनेषितासः ॥
भुव॑नस्य पि॒तरं॑ गी॒र्भिरा॒भी रु॒द्रं दिवा॑ व॒र्धया॑ रु॒द्रम॒क्तौ । बृ॒हन्त॑मृ॒ष्वम॒जरं॑ सुषु॒म्नमृध॑ग्घुवेम क॒विने॑षि॒तास॑: ॥
bhúvanasya pitáraṃ gī́rbhir ābhī́ rudráṃ divā́ vardháyā rudrám aktáu | bṛhántam ṛṣvám ajáraṃ susúmnam ṛ́dhag huvema kavínā iṣitā́saḥ ||
With these utterances we strengthen Rudra, the Father of the worlds—by day and in the night. Him we call, the Vast and Lofty, the Unaging, the giver of a happy grace; we, impelled by the seer-mind, invoke him each in his own way.
भुव॑नस्य । पि॒तर॑म् । गीः॒ऽभिः । आ॒भिः । रु॒द्रम् । दिवा॑ । व॒र्धय॑ । रु॒द्रम् । अ॒क्तौ । बृ॒हन्त॑म् । ऋ॒ष्वम् । अ॒जर॑म् । सु॒ऽसु॒म्नम् । ऋध॑क् । हु॒वे॒म॒ । क॒विना॑ । इ॒षि॒तासः॑ ॥भुवनस्य । पितरम् । गीःभिः । आभिः । रुद्रम् । दिवा । वर्धय । रुद्रम् । अक्तौ । बृहन्तम् । ऋष्वम् । अजरम् । सुसुम्नम् । ऋधक् । हुवेम । कविना । इषितासः ॥bhuvanasya | pitaram | gīḥ-bhiḥ | ābhiḥ | rudram | divā | vardhaya | rudram | aktau | bṛhantam | ṛṣvam | ajaram | su-sumnam | ṛdhak | huvema | kavinā | iṣitāsaḥ