Sukta 6.49
पथस्पथः परिपतिं वचस्या कामेन कृतो अभ्यानळर्कम् । स नो रासच्छुरुधश्चन्द्राग्रा धियंधियं सीषधाति प्र पूषा ॥
प॒थस्प॑थ॒: परि॑पतिं वच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नळ॒र्कम् । स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं॑धियं सीषधाति॒ प्र पू॒षा ॥
pathás-pathaḥ pári-patiṃ vacasyā́ kā́mena kṛtó abhí ānaḷ arkam | sá no rāsac churúdhaś candrā́grā dhíyaṃ-dhiyaṃ sīsadhāti prá pūṣā́ ||
On every path, may Pūṣan—the lord who goes around and guards the ways—impelled by the soul’s desire, bring near the hymn. May he give us the shining streams whose forefront is luminous, and may he set in motion thought after thought toward the forward march.
प॒थःऽप॑थः । परि॑ऽपतिम् । व॒च॒स्या । कामे॑न । कृ॒तः । अ॒भि । आ॒न॒ट् । अ॒र्कम् । सः । नः॒ । रा॒स॒त् । शु॒रुधः॑ । च॒न्द्रऽअ॑ग्राः । धिय॑म्ऽधियम् । सी॒स॒धा॒ति॒ । प्र । पू॒षा ॥पथःपथः । परिपतिम् । वचस्या । कामेन । कृतः । अभि । आनट् । अर्कम् । सः । नः । रासत् । शुरुधः । चन्द्रअग्राः । धियम्धियम् । सीसधाति । प्र । पूषा ॥pathaḥ-pathaḥ | pari-patim | vacasyā | kāmena | kṛtaḥ | abhi | ānaṭ | arkam | saḥ | naḥ | rāsat | śurudhaḥ | candra-agrāḥ | dhiyam-dhiyam | sīsadhāti | pra | pūṣā