Sukta 6.49
पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् । ग्नाभिरच्छिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसत् ॥
पावी॑रवी क॒न्या॑ चि॒त्रायु॒: सर॑स्वती वी॒रप॑त्नी॒ धियं॑ धात् । ग्नाभि॒रच्छि॑द्रं शर॒णं स॒जोषा॑ दुरा॒धर्षं॑ गृण॒ते शर्म॑ यंसत् ॥
pāvī́ravī kanyā́ citrā́yuḥ sárasvatī vī́rapatnī dhíyaṃ dhāt | gnā́bhir ácchidraṃ śaraṇáṃ sajóṣā durā́dharṣaṃ gṛṇaté śárma yaṃsat ||
May Sarasvatī—purifying in her flow, the young maiden of many-coloured life, the spouse of heroic powers—place within us the inspired thought. Together with the divine women, may she grant to the singer an unbroken refuge, hard to assail, a sheltering peace.
पावी॑रवी । क॒न्या॑ । चि॒त्रऽआ॑युः । सर॑स्वती । वी॒रऽप॑त्नी । धिय॑म् । धा॒त् । ग्नाभिः॑ । अच्छि॑द्रम् । श॒र॒णम् । स॒ऽजोषाः॑ । दुः॒ऽआ॒धर्ष॑म् । गृ॒ण॒ते । शर्म॑ । यं॒स॒त् ॥पावीरवी । कन्या । चित्रआयुः । सरस्वती । वीरपत्नी । धियम् । धात् । ग्नाभिः । अच्छिद्रम् । शरणम् । सजोषाः । दुःआधर्षम् । गृणते । शर्म । यंसत् ॥pāvīravī | kanyā | citra-āyuḥ | sarasvatī | vīra-patnī | dhiyam | dhāt | gnābhiḥ | acchidram | śaraṇam | sa-joṣāḥ | duḥ-ādharṣam | gṛṇate | śarma | yaṃsat