Sukta 6.49
पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतमप्यानि । सत्यश्रुतः कवयो यस्य गीर्भिर्जगतः स्थातर्जगदा कृणुध्वम् ॥
पर्ज॑न्यवाता वृषभा पृथि॒व्याः पुरी॑षाणि जिन्वत॒मप्या॑नि । सत्य॑श्रुतः कवयो॒ यस्य॑ गी॒र्भिर्जग॑तः स्थात॒र्जग॒दा कृ॑णुध्वम् ॥
párjanya-vātā vṛṣabhā pṛthivyā́ḥ purī́ṣāṇi jinvatam ápyāni | satyá-śrutaḥ kavayo yásya gī́rbhir jágataḥ sthātár jágad ā́ kṛṇudhvam ||
O Parjanya and Vāta, bulls of the Earth, quicken the moist richnesses, the inner sap. O seers who hear the truth, by whose words the moving world and the stable world are set in order—make the world itself grow into its right becoming.
पर्ज॑न्यवाता । वृ॒ष॒भा॒ । पृ॒थि॒व्याः । पुरी॑षाणि । जि॒न्व॒त॒म् । अप्या॑नि । सत्य॑ऽश्रुतः । क॒व॒यः॒ । यस्य॑ । गीः॒ऽभिः । जग॑तः । स्था॒तः॒ । जग॑त् । आ । कृ॒णु॒ध्व॒म् ॥पर्जन्यवाता । वृषभा । पृथिव्याः । पुरीषाणि । जिन्वतम् । अप्यानि । सत्यश्रुतः । कवयः । यस्य । गीःभिः । जगतः । स्थातः । जगत् । आ । कृणुध्वम् ॥parjanyavātā | vṛṣabhā | pṛthivyāḥ | purīṣāṇi | jinvatam | apyāni | satya-śrutaḥ | kavayaḥ | yasya | gīḥ-bhiḥ | jagataḥ | sthātaḥ | jagat | ā | kṛṇudhvam