Sukta 6.49
प्र वायुमच्छा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्राम् । द्युतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि प्रयज्यो ॥
प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं वि॒श्ववा॑रं रथ॒प्राम् । द्यु॒तद्या॑मा नि॒युत॒: पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ॥
prá vāyúm ácchā bṛhatī́ manīṣā́ bṛhád rayíṃ viśvá-vāraṃ ratha-prā́m | dyutád-yāmā niyútaḥ pátyamānaḥ kavíḥ kavím iyákṣasi prayajyó ||
Forward to Vāyu my vast thought goes, seeking the great plenitude, the all-desirable richness that fills the car. With shining courses, mastering his yoked energies, the seer calls the Seer for the offering, O thou worthy of worship.
प्र । वा॒युम् । अच्छ॑ । बृ॒ह॒ती । म॒नी॒षा । बृ॒हत्ऽर॑यिम् । वि॒श्वऽवा॑रम् । र॒थ॒ऽप्राम् । द्यु॒तद्ऽया॑मा । नि॒ऽयुतः॑ । पत्य॑मानः । क॒विः । क॒विम् । इ॒य॒क्ष॒सि॒ । प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो ॥प्र । वायुम् । अच्छ । बृहती । मनीषा । बृहत्रयिम् । विश्ववारम् । रथप्राम् । द्युतद्यामा । नियुतः । पत्यमानः । कविः । कविम् । इयक्षसि । प्रयज्यो इति प्रयज्यो ॥pra | vāyum | accha | bṛhatī | manīṣā | bṛhat-rayim | viśva-vāram | ratha-prām | dyutad-yāmā | ni-yutaḥ | patyamānaḥ | kaviḥ | kavim | iyakṣasi | prayajyo