Sukta 6.49
अरुषस्य दुहितरा विरूपे स्तृभिरन्या पिपिशे सूरो अन्या । मिथस्तुरा विचरन्ती पावके मन्म श्रुतं नक्षत ऋच्यमाने ॥
अ॒रु॒षस्य॑ दुहि॒तरा॒ विरू॑पे॒ स्तृभि॑र॒न्या पि॑पि॒शे सूरो॑ अ॒न्या । मि॒थ॒स्तुरा॑ वि॒चर॑न्ती पाव॒के मन्म॑ श्रु॒तं न॑क्षत ऋ॒च्यमा॑ने ॥
aruṣásya duhitarā́ virū́pe stṛ́bhir anyā́ pipiśé sū́ro anyā́ | mithás-turā́ vicarantī pāvaké mánma śrutáṃ nakṣata ṛcyámāne ||
Two daughters of the Ruddy One, diverse in form: one is adorned with her bright trappings, the other is the Sun’s own. Moving in mutual impulse, they wander in the purifying flame; and the thought that is heard attains its goal as the hymn is being shaped.
अ॒रु॒षस्य॑ । दु॒हि॒तरा॑ । विरू॑पे॒ इति॒ विऽरू॑पे । स्तृऽभिः॑ । अ॒न्या । पि॒पि॒शे । सूरः॑ । अ॒न्या । मि॒थः॒ऽतुरा॑ । वि॒चर॑न्ती॒ इति॑ वि॒ऽचर॑न्ती । पा॒व॒के इति॑ । मन्म॑ । श्रु॒तम् । न॒क्ष॒त॒ । ऋ॒च्यमा॑ने॒ इति॑ ॥अरुषस्य । दुहितरा । विरूपे इति विरूपे । स्तृभिः । अन्या । पिपिशे । सूरः । अन्या । मिथःतुरा । विचरन्ती इति विचरन्ती । पावके इति । मन्म । श्रुतम् । नक्षत । ऋच्यमाने इति ॥aruṣasya | duhitarā | virūpeitivi-rūpe | stṛ-bhiḥ | anyā pipiśe | sūraḥ | anyā | mithaḥ-turā | vicarantī itivi-carantī | pāvake iti | manma | śrutam | nakṣata | ṛcyamāneiti