Sukta 6.49
विशोविश ईड्यमध्वरेष्वदृप्तक्रतुमरतिं युवत्योः । दिवः शिशुं सहसः सूनुमग्निं यज्ञस्य केतुमरुषं यजध्यै ॥
वि॒शोवि॑श॒ ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिं यु॑व॒त्योः । दि॒वः शिशुं॒ सह॑सः सू॒नुम॒ग्निं य॒ज्ञस्य॑ के॒तुम॑रु॒षं यज॑ध्यै ॥
viśó-viśa ī́ḍyam adhvaréṣv adṛ́ptakratum aratíṃ yuvatyoḥ | diváḥ śíśuṃ sáhasaḥ sū́num agníṃ yajñásya ketúm aruṣáṃ yajádhyai ||
Worship, O clans and clans, in the sacrifices, Agni the adorable—whose will is unbroken, the tireless traveller between the two young worlds. The child of Heaven, the son of Force, the red flame, the banner of the sacrifice—worship him for the offering.
वि॒शःऽवि॑शः । ई॒ड्य॑म् । अ॒ध्व॒रेषु॑ । अदृ॑प्तऽक्रतुम् । अ॒र॒तिम् । यु॒व॒त्योः । दि॒वः । शिशु॑म् । सह॑सः । शू॒नुम् । अ॒ग्निम् । य॒ज्ञस्य॑ । के॒तुम् । अ॒रु॒षम् । यज॑ध्यै ॥विशःविशः । ईड्यम् । अध्वरेषु । अदृप्तक्रतुम् । अरतिम् । युवत्योः । दिवः । शिशुम् । सहसः । शूनुम् । अग्निम् । यज्ञस्य । केतुम् । अरुषम् । यजध्यै ॥viśaḥ-viśaḥ | īḍyam | adhvareṣu | adṛpta-kratum | aratim | yuvatyoḥ | divaḥ | śiśum | sahasaḥ | śūnum | agnim | yajñasya | ketum | aruṣam | yajadhyai