Sukta 6.49
स्तुषे जनं सुव्रतं नव्यसीभिर्गीर्भिर्मित्रावरुणा सुम्नयन्ता । त आ गमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणो मित्रो अग्निः ॥
स्तु॒षे जनं॑ सुव्र॒तं नव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णा सुम्न॒यन्ता॑ । त आ ग॑मन्तु॒ त इ॒ह श्रु॑वन्तु सुक्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निः ॥
stuṣé jánaṃ suvratáṃ navyásībhiṛ gī́rbhir mitrā́varuṇā sumnayántā | tá ā́ gamantu tá ihá śruvantu sukṣatrā́so váruṇo mitró agníḥ ||
I hymn the noble host of right-will with ever-new words—Mitra and Varuṇa who bring the happy grace. Let them come to us; let them hear here: the strong in sovereign power—Varuṇa, Mitra, and Agni.
स्तु॒षे । जन॑म् । सु॒ऽव्र॒तम् । नव्य॑सीभिः । गीः॒ऽभिः । मि॒त्रावरु॑णा । सु॒म्न॒ऽयन्ता॑ । ते । आ । ग॒म॒न्तु॒ । ते । इ॒ह । श्रु॒व॒न्तु॒ । सु॒ऽक्ष॒त्रासः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः ॥स्तुषे । जनम् । सुव्रतम् । नव्यसीभिः । गीःभिः । मित्रावरुणा । सुम्नयन्ता । ते । आ । गमन्तु । ते । इह । श्रुवन्तु । सुक्षत्रासः । वरुणः । मित्रः । अग्निः ॥stuṣe | janam | su-vratam | navyasībhiḥ | gīḥ-bhiḥ | mitrāvaruṇā | sumna-yantā | te | ā | gamantu | te | iha | śruvantu | su-kṣatrāsaḥ | varuṇaḥ | mitraḥ | agniḥ